लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्

षष्ठः सर्गः


अथ विश्वात्मने गौरी संदिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥१॥

तया व्याहृतसंदेशा सा बभौ निभृता प्रिये।
चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी ॥२॥

स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्।
ऋषीज्योतिर्मयान् सप्त सस्मार स्मरशासनः॥३॥

ते प्रभामण्डलैव्या॑म द्योतयन्तस्तपोधनाः।
सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः॥४॥

आप्लुतास्तीर-मन्दार-कुसुमोत्कर-वीचिषु।
व्योमगङ्गाप्रवाहेषु दिङ्नाग-मदगन्धिषु॥५॥

मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः॥६॥

अधः-प्रवत्तताश्वेन समावजितकेतुना।
सहस्ररश्मिना साक्षात् सप्रमाणमुदीक्षिताः॥७॥

आसक्तबाहु-लतया सार्धमुद्धतया भुवा।
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि॥८॥

सर्गशेषप्रणयनाद् विश्वयोनेरनन्तरम्।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः॥९॥

प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम्।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः॥१०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book